Lucas 11

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV) vs NAA

Sair da comparação
NAA Nova Almeida Atualizada 2017
1 अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।
1 Jesus estava orando em certo lugar e, quando terminou, um dos seus discípulos lhe pediu: — Senhor, ensine-nos a orar como também João ensinou os discípulos dele.
2 तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
2 Então Jesus disse:
3 प्रत्यहम् अस्माकं प्रयोजनीयं भोज्यं देहि।
3 o pão nosso de cada dia
4 यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।
4 perdoa-nos os nossos pecados,
5 पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति,
5 Jesus disse ainda:
6 हे बन्धो पथिक एको बन्धु र्मम निवेशनम् आयातः किन्तु तस्यातिथ्यं कर्त्तुं ममान्तिके किमपि नास्ति, अतएव पूपत्रयं मह्यम् ऋणं देहि;
6 porque outro amigo meu chegou de viagem e eu não tenho nada para lhe oferecer”;
7 तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,
7 e se o outro lhe responder lá de dentro: “Deixe-me em paz! A porta já está fechada, e eu e os meus filhos já estamos deitados. Não posso me levantar para lhe dar os pães”,
8 तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।
8 digo a vocês que, se ele não se levantar para dar esses pães por ser seu amigo, ele o fará por causa do incômodo e lhe dará tudo de que tiver necessidade.
9 अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।
9 — Por isso, digo a vocês: Peçam e lhes será dado; busquem e acharão; batam, e a porta será aberta para vocês.
10 यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।
10 Pois todo o que pede recebe; o que busca encontra; e a quem bate, a porta será aberta.
11 पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
11 Quem de vocês, sendo pai, daria uma cobra ao filho que lhe pede um peixe?
12 वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
12 Ou daria um escorpião ao filho que lhe pede um ovo?
13 तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
13 Ora, se vocês, que são maus, sabem dar coisas boas aos seus filhos, quanto mais o Pai celeste dará o Espírito Santo aos que lhe pedirem!
14 अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।
14 Certo dia, Jesus estava expulsando um demônio que era mudo. E aconteceu que, ao sair o demônio, o mudo passou a falar. E as multidões se admiravam.
15 किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।
15 Mas alguns deles diziam: — Ele expulsa os demônios pelo poder de Belzebu, o maioral dos demônios.
16 तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थयाञ्चक्रिरे।
16 E outros, tentando-o, pediam dele um sinal vindo do céu.
17 तदा स तेषां मनःकल्पनां ज्ञात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
17 Mas Jesus, sabendo o que passava pela mente deles, disse-lhes:
18 तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।
18 Se também Satanás estiver dividido contra si mesmo, como o seu reino subsistirá? Isto porque vocês dizem que eu expulso os demônios por Belzebu.
19 यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।
19 E, se eu expulso os demônios por Belzebu, por quem os filhos de vocês os expulsam? Por isso, eles mesmos serão os juízes de vocês.
20 किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।
20 Se, porém, eu expulso os demônios pelo dedo de Deus, certamente é chegado o Reino de Deus sobre vocês.
21 बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।
21 Quando o valente, bem-armado, guarda a sua própria casa, todos os seus bens ficam em segurança.
22 किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
22 Mas, se aparece alguém mais valente do que ele, vence-o, tira-lhe a armadura em que confiava e reparte os seus despojos.
23 अतः कारणाद् यो मम सपक्षो न स विपक्षः, यो मया सह न संगृह्लाति स विकिरति।
23 Quem não é por mim é contra mim; e quem comigo não ajunta espalha.
24 अपरञ्च अमेध्यभूतो मानुषस्यान्तर्निर्गत्य शुष्कस्थाने भ्रान्त्वा विश्रामं मृगयते किन्तु न प्राप्य वदति मम यस्माद् गृहाद् आगतोहं पुनस्तद् गृहं परावृत्य यामि।
24 — Quando o espírito imundo sai de uma pessoa, anda por lugares áridos, procurando repouso. E, não o achando, diz: “Voltarei para a minha casa, de onde saí.”
25 ततो गत्वा तद् गृहं मार्जितं शोभितञ्च दृष्ट्वा
25 E, voltando, a encontra varrida e arrumada.
26 तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।
26 Então vai e leva consigo outros sete espíritos, piores do que ele, e, entrando, habitam ali. E o último estado daquela pessoa se torna pior do que o primeiro.
27 अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भेऽधारयत् स्तन्यमपाययच्च सैव धन्या।
27 Aconteceu que, ao dizer Jesus estas palavras, uma mulher, que estava no meio da multidão, disse a ele, erguendo a voz: — Bem-aventurado o ventre que concebeu você e os seios que o amamentaram!
28 किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
28 Jesus, porém, respondeu:
29 ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् किञ्चिच्चिह्नं तान् न दर्शयिष्यते।
29 Visto que aumentavam as multidões em volta dele, Jesus começou a dizer:
30 यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
30 Porque, assim como Jonas foi sinal para os ninivitas, o Filho do Homem o será para esta geração.
31 विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
31 A rainha do Sul se levantará, no Juízo, com os homens desta geração e os condenará, porque veio dos confins da terra para ouvir a sabedoria de Salomão. E aqui está quem é maior do que Salomão.
32 अपरञ्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनोऽस्मिन् स्थाने विद्यते।
32 Ninivitas se levantarão, no Juízo, com esta geração e a condenarão, porque se arrependeram com a pregação de Jonas. E aqui está quem é maior do que Jonas.
33 प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।
33 — Ninguém, depois de acender uma lamparina, a coloca em lugar escondido, nem debaixo de um cesto, mas num lugar em que ilumina bem, a fim de que os que entram vejam a luz.
34 देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
34 Os olhos são a lâmpada do corpo. Se os seus olhos forem bons, todo o seu corpo será cheio de luz; mas, se forem maus, o seu corpo ficará em trevas.
35 अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।
35 Portanto, tenha cuidado para que a luz que está em você não sejam trevas.
36 यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
36 Pois, se todo o seu corpo for luminoso, sem ter qualquer parte em trevas, será todo resplandecente como a lamparina quando ilumina você em plena luz.
37 एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
37 Ao falar Jesus estas palavras, um fariseu o convidou para uma refeição na sua casa. Entrando na casa, Jesus tomou lugar à mesa.
38 किन्तु भोजनात् पूर्व्वं नामाङ्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं मेने।
38 O fariseu admirou-se ao ver que Jesus não tinha se lavado antes de comer.
39 तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।
39 Mas o Senhor lhe disse:
40 हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?
40 Seus tolos! Quem fez o exterior não é o mesmo que fez o interior?
41 तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
41 Mas deem como esmola o que está dentro do copo e do prato, e tudo lhes será limpo.
42 किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।
42 Mas ai de vocês, fariseus! Porque vocês dão o dízimo da hortelã, da arruda e de todas as hortaliças, e desprezam a justiça e o amor de Deus. Vocês deveriam fazer estas coisas, sem omitir aquelas.
43 हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।
43 Ai de vocês, fariseus! Porque gostam da primeira cadeira nas sinagogas e das saudações nas praças.
44 वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।
44 Ai de vocês que são como as sepulturas invisíveis, sobre as quais as pessoas passam sem perceber!
45 तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।
45 Então, tomando a palavra, um dos intérpretes da Lei disse a Jesus: — Mestre, ao dizer estas coisas o senhor está ofendendo também a nós!
46 ततः स उवाच, हा हा व्यवस्थापका यूयम् मानुषाणाम् उपरि दुःसह्यान् भारान् न्यस्यथ किन्तु स्वयम् एकाङ्गुुल्यापि तान् भारान् न स्पृशथ।
46 Mas Jesus respondeu:
47 हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनोऽवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।
47 Ai de vocês! Porque edificam os túmulos dos profetas que os pais de vocês assassinaram.
48 तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।
48 Assim, são testemunhas e aprovam com cumplicidade as obras dos pais de vocês; porque eles mataram os profetas, e vocês edificam túmulos para eles.
49 अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
49 Por isso, também disse a sabedoria de Deus: “Mandarei para eles profetas e apóstolos, e a alguns deles matarão e a outros perseguirão”,
50 एतस्मात् कारणात् हाबिलः शोणितपातमारभ्य मन्दिरयज्ञवेद्यो र्मध्ये हतस्य सिखरियस्य रक्तपातपर्य्यन्तं
50 para que desta geração se peçam contas do sangue dos profetas, derramado desde a fundação do mundo,
51 जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।
51 desde o sangue de Abel até o sangue de Zacarias, que foi assassinado entre o altar e o santuário. Sim, eu afirmo a vocês que se pedirão contas a esta geração.
52 हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।
52 Ai de vocês, intérpretes da Lei! Porque vocês pegaram a chave do conhecimento. No entanto, vocês mesmos não entraram e impediram os que estavam entrando.
53 इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः
53 Quando Jesus saiu dali, os escribas e fariseus começaram a contestá-lo com veemência, fazendo perguntas a respeito de muitos assuntos,
54 सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।
54 com o objetivo de tirar daquilo que ele dizia um motivo para o acusar.

Ler em outra tradução

Comparar com outra

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Lucas 11, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.