Lucas 12

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।

2 यतो यन्न प्रकाशयिष्यते तदाच्छन्नं वस्तु किमपि नास्ति; तथा यन्न ज्ञास्यते तद् गुप्तं वस्तु किमपि नास्ति।

3 अन्धकारे तिष्ठनतो याः कथा अकथयत ताः सर्व्वाः कथा दीप्तौ श्रोष्यन्ते निर्जने कर्णे च यदकथयत गृहपृष्ठात् तत् प्रचारयिष्यते।

4 हे बन्धवो युष्मानहं वदामि, ये शरीरस्य नाशं विना किमप्यपरं कर्त्तुं न शक्रुवन्ति तेभ्यो मा भैष्ट।

5 तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।

6 पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।

7 युष्माकं शिरःकेशा अपि गणिताः सन्ति तस्मात् मा विभीत बहुचटकपक्षिभ्योपि यूयं बहुमूल्याः।

8 अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।

9 किन्तु यः कश्चिन्मानुषाणां साक्षान्माम् अस्वीकरोति तम् ईश्वरस्य दूतानां साक्षाद् अहम् अस्वीकरिष्यामि।

10 अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।

11 यदा लोका युष्मान् भजनगेहं विचारकर्तृराज्यकर्तृणां सम्मुखञ्च नेष्यन्ति तदा केन प्रकारेण किमुत्तरं वदिष्यथ किं कथयिष्यथ चेत्यत्र मा चिन्तयत;

12 यतो युष्माभिर्यद् यद् वक्तव्यं तत् तस्मिन् समयएव पवित्र आत्मा युष्मान् शिक्षयिष्यति।

13 ततः परं जनतामध्यस्थः कश्चिज्जनस्तं जगाद हे गुरो मया सह पैतृकं धनं विभक्तुं मम भ्रातरमाज्ञापयतु भवान्।

14 किन्तु स तमवदत् हे मनुष्य युवयो र्विचारं विभागञ्च कर्त्तुं मां को नियुक्तवान्?

15 अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।

16 पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि।

17 ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि?

18 ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

20 रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?

21 अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।

22 अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।

23 भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति।

24 काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

25 अपरञ्च भावयित्वा निजायुषः क्षणमात्रं वर्द्धयितुं शक्नोति, एतादृशो लाको युष्माकं मध्ये कोस्ति?

26 अतएव क्षुद्रं कार्य्यं साधयितुम् असमर्था यूयम् अन्यस्मिन् कार्य्ये कुतो भावयथ?

27 अन्यच्च काम्पिलपुष्पं कथं वर्द्धते तदापि विचारयत, तत् कञ्चन श्रमं न करोति तन्तूंश्च न जनयति किन्तु युष्मभ्यं यथार्थं कथयामि सुलेमान् बह्वैश्वर्य्यान्वितोपि पुष्पस्यास्य सदृशो विभूषितो नासीत्।

28 अद्य क्षेत्रे वर्त्तमानं श्वश्चूल्ल्यां क्षेप्स्यमानं यत् तृणं, तस्मै यदीश्वर इत्थं भूषयति तर्हि हे अल्पप्रत्ययिनो युष्मान किं न परिधापयिष्यति?

29 अतएव किं खादिष्यामः? किं परिधास्यामः? एतदर्थं मा चेष्टध्वं मा संदिग्ध्वञ्च।

30 जगतो देवार्च्चका एतानि सर्व्वाणि चेष्टनते; एषु वस्तुषु युष्माकं प्रयोजनमास्ते इति युष्माकं पिता जानाति।

31 अतएवेश्वरस्य राज्यार्थं सचेष्टा भवत तथा कृते सर्व्वाण्येतानि द्रव्याणि युष्मभ्यं प्रदायिष्यन्ते।

32 हे क्षुद्रमेषव्रज यूयं मा भैष्ट युष्मभ्यं राज्यं दातुं युष्माकं पितुः सम्मतिरस्ति।

33 अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;

34 यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।

35 अपरञ्च यूयं प्रदीपं ज्वालयित्वा बद्धकटयस्तिष्ठत;

36 प्रभु र्विवाहादागत्य यदैव द्वारमाहन्ति तदैव द्वारं मोचयितुं यथा भृत्या अपेक्ष्य तिष्ठन्ति तथा यूयमपि तिष्ठत।

37 यतः प्रभुरागत्य यान् दासान् सचेतनान् तिष्ठतो द्रक्ष्यति तएव धन्याः; अहं युष्मान् यथार्थं वदामि प्रभुस्तान् भोजनार्थम् उपवेश्य स्वयं बद्धकटिः समीपमेत्य परिवेषयिष्यति।

38 यदि द्वितीये तृतीये वा प्रहरे समागत्य तथैव पश्यति, तर्हि तएव दासा धन्याः।

39 अपरञ्च कस्मिन् क्षणे चौरा आगमिष्यन्ति इति यदि गृहपति र्ज्ञातुं शक्नोति तदावश्यं जाग्रन् निजगृहे सन्धिं कर्त्तयितुं वारयति यूयमेतद् वित्त।

40 अतएव यूयमपि सज्जमानास्तिष्ठत यतो यस्मिन् क्षणे तं नाप्रेक्षध्वे तस्मिन्नेव क्षणे मनुष्यपुत्र आगमिष्यति।

41 तदा पितरः पप्रच्छ, हे प्रभो भवान् किमस्मान् उद्दिश्य किं सर्व्वान् उद्दिश्य दृष्टान्तकथामिमां वदति?

42 ततः प्रभुः प्रोवाच, प्रभुः समुचितकाले निजपरिवारार्थं भोज्यपरिवेषणाय यं तत्पदे नियोक्ष्यति तादृशो विश्वास्यो बोद्धा कर्म्माधीशः कोस्ति?

43 प्रभुरागत्य यम् एतादृशे कर्म्मणि प्रवृत्तं द्रक्ष्यति सएव दासो धन्यः।

44 अहं युष्मान् यथार्थं वदामि स तं निजसर्व्वस्वस्याधिपतिं करिष्यति।

45 किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,

46 तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।

47 यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति;

48 किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।

49 अहं पृथिव्याम् अनैक्यरूपं वह्नि निक्षेप्तुम् आगतोस्मि, स चेद् इदानीमेव प्रज्वलति तत्र मम का चिन्ता?

50 किन्तु येन मज्जनेनाहं मग्नो भविष्यामि यावत्कालं तस्य सिद्धि र्न भविष्यति तावदहं कतिकष्टं प्राप्स्यामि।

51 मेलनं कर्त्तुं जगद् आगतोस्मि यूयं किमित्थं बोधध्वे? युष्मान् वदामि न तथा, किन्त्वहं मेलनाभावं कर्त्तुंम् आगतोस्मि।

52 यस्मादेतत्कालमारभ्य एकत्रस्थपरिजनानां मध्ये पञ्चजनाः पृथग् भूत्वा त्रयो जना द्वयोर्जनयोः प्रतिकूला द्वौ जनौ च त्रयाणां जनानां प्रतिकूलौ भविष्यन्ति।

53 पिता पुत्रस्य विपक्षः पुत्रश्च पितु र्विपक्षो भविष्यति माता कन्याया विपक्षा कन्या च मातु र्विपक्षा भविष्यति, तथा श्वश्रूर्बध्वा विपक्षा बधूश्च श्वश्र्वा विपक्षा भविष्यति।

54 स लोकेभ्योपरमपि कथयामास, पश्चिमदिशि मेघोद्गमं दृष्ट्वा यूयं हठाद् वदथ वृष्टि र्भविष्यति ततस्तथैव जायते।

55 अपरं दक्षिणतो वायौ वाति सति वदथ निदाघो भविष्यति ततः सोपि जायते।

56 रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,

57 किन्तु कालस्यास्य लक्षणं कुतो बोद्धुं न शक्नुथ? यूयञ्च स्वयं कुतो न न्याष्यं विचारयथ?

58 अपरञ्च विवादिना सार्द्धं विचारयितुः समीपं गच्छन् पथि तस्मादुद्धारं प्राप्तुं यतस्व नोचेत् स त्वां धृत्वा विचारयितुः समीपं नयति। विचारयिता यदि त्वां प्रहर्त्तुः समीपं समर्पयति प्रहर्त्ता त्वां कारायां बध्नाति

59 तर्हि त्वामहं वदामि त्वया निःशेषं कपर्दकेषु न परिशोधितेषु त्वं ततो मुक्तिं प्राप्तुं न शक्ष्यसि।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Lucas 12, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.