Mateus 27

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 प्रभाते जाते प्रधानयाजकलोकप्राचीना यीशुं हन्तुं तत्प्रतिकूलं मन्त्रयित्वा

2 तं बद्व्वा नीत्वा पन्तीयपीलाताख्याधिपे समर्पयामासुः।

3 ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,

4 एतन्निरागोनरप्राणपरकरार्पणात् कलुषं कृतवानहं। तदा त उदितवन्तः, तेनास्माकं किं? त्वया तद् बुध्यताम्।

5 ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।

6 पश्चात् प्रधानयाजकास्ता मुद्रा आदाय कथितवन्तः, एता मुद्राः शोणितमूल्यं तस्माद् भाण्डागारे न निधातव्याः।

7 अनन्तरं ते मन्त्रयित्वा विदेशिनां श्मशानस्थानाय ताभिः कुलालस्य क्षेत्रमक्रीणन्।

8 अतोऽद्यापि तत्स्थानं रक्तक्षेत्रं वदन्ति।

9 इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं

10 मां प्रति परमेश्वरस्यादेशात् तेभ्य आदीयत, तेन च कुलालस्य क्षेत्रं क्रीतमिति यद्वचनं यिरिमियभविष्यद्वादिना प्रोक्तं तत् तदासिध्यत्।

11 अनन्तरं यीशौ तदधिपतेः सम्मुख उपतिष्ठति स तं पप्रच्छ, त्वं किं यिहूदीयानां राजा? तदा यीशुस्तमवदत्, त्वं सत्यमुक्तवान्।

12 किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।

13 ततः पीलातेन स उदितः, इमे त्वत्प्रतिकूलतः कति कति साक्ष्यं ददति, तत् त्वं न शृणोषि?

14 तथापि स तेषामेकस्यापि वचस उत्तरं नोदितवान्; तेन सोऽधिपति र्महाचित्रं विदामास।

15 अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।

16 तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्।

17 ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?

18 तैरीर्ष्यया स समर्पित इति स ज्ञातवान्।

19 अपरं विचारासनोपवेशनकाले पीलातस्य पत्नी भृत्यं प्रहित्य तस्मै कथयामास, तं धार्म्मिकमनुजं प्रति त्वया किमपि न कर्त्तव्यं; यस्मात् तत्कृतेऽद्याहं स्वप्ने प्रभूतकष्टमलभे।

20 अनन्तरं प्रधानयाजकप्राचीना बरब्बां याचित्वादातुं यीशुञ्च हन्तुं सकललोकान् प्रावर्त्तयन्।

21 ततोऽधिपतिस्तान् पृष्टवान्, एतयोः कमहं मोचयिष्यामि? युष्माकं केच्छा? ते प्रोचु र्बरब्बां।

22 तदा पीलातः पप्रच्छ, तर्हि यं ख्रीष्टं वदन्ति, तं यीशुं किं करिष्यामि? सर्व्वे कथयामासुः, स क्रुशेन विध्यतां।

23 ततोऽधिपतिरवादीत्, कुतः? किं तेनापराद्धं? किन्तु ते पुनरुचै र्जगदुः, स क्रुशेन विध्यतां।

24 तदा निजवाक्यमग्राह्यमभूत्, कलहश्चाप्यभूत्, पीलात इति विलोक्य लोकानां समक्षं तोयमादाय करौ प्रक्षाल्यावोचत्, एतस्य धार्म्मिकमनुष्यस्य शोणितपाते निर्दोषोऽहं, युष्माभिरेव तद् बुध्यतां।

25 तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।

26 ततः स तेषां समीपे बरब्बां मोचयामास यीशुन्तु कषाभिराहत्य क्रुशेन वेधितुं समर्पयामास।

27 अनन्तरम् अधिपतेः सेना अधिपते र्गृहं यीशुमानीय तस्य समीपे सेनासमूहं संजगृहुः।

28 ततस्ते तस्य वसनं मोचयित्वा कृष्णलोहितवर्णवसनं परिधापयामासुः

29 कण्टकानां मुकुटं निर्म्माय तच्छिरसि ददुः, तस्य दक्षिणकरे वेत्रमेकं दत्त्वा तस्य सम्मुखे जानूनि पातयित्वा, हे यिहूदीयानां राजन्, तुभ्यं नम इत्युक्त्वा तं तिरश्चक्रुः,

30 ततस्तस्य गात्रे निष्ठीवं दत्वा तेन वेत्रेण शिर आजघ्नुः।

31 इत्थं तं तिरस्कृत्य तद् वसनं मोचयित्वा पुनर्निजवसनं परिधापयाञ्चक्रुः, तं क्रुशेन वेधितुं नीतवन्तः।

32 पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।

33 अनन्तरं गुल्गल्ताम् अर्थात् शिरस्कपालनामकस्थानमु पस्थाय ते यीशवे पित्तमिश्रिताम्लरसं पातुं ददुः,

34 किन्तु स तमास्वाद्य न पपौ।

35 तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,

36 पश्चात् ते तत्रोपविश्य तद्रक्षणकर्व्वणि नियुक्तास्तस्थुः।

37 अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।

38 ततस्तस्य वामे दक्षिणे च द्वौ चैरौ तेन साकं क्रुशेन विविधुः।

39 तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,

40 हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।

41 प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः,

42 सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।

43 स ईश्वरे प्रत्याशामकरोत्, यदीश्वरस्तस्मिन् सन्तुष्टस्तर्हीदानीमेव तमवेत्, यतः स उक्तवान् अहमीश्वरसुतः।

44 यौ स्तेनौ साकं तेन क्रुशेन विद्धौ तौ तद्वदेव तं निनिन्दतुः।

45 तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,

46 तृतीययामे "एली एली लामा शिवक्तनी", अर्थात् मदीश्वर मदीश्वर कुतो मामत्याक्षीः? यीशुरुच्चैरिति जगाद।

47 तदा तत्र स्थिताः केचित् तत् श्रुत्वा बभाषिरे, अयम् एलियमाहूयति।

48 तेषां मध्याद् एकः शीघ्रं गत्वा स्पञ्जं गृहीत्वा तत्राम्लरसं दत्त्वा नलेन पातुं तस्मै ददौ।

49 इतरेऽकथयन् तिष्ठत, तं रक्षितुम् एलिय आयाति नवेति पश्यामः।

50 यीशुः पुनरुचैराहूय प्राणान् जहौ।

51 ततो मन्दिरस्य विच्छेदवसनम् ऊर्द्व्वादधो यावत् छिद्यमानं द्विधाभवत्,

52 भूमिश्चकम्पे भूधरोव्यदीर्य्यत च। श्मशाने मुक्ते भूरिपुण्यवतां सुप्तदेहा उदतिष्ठन्,

53 श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः।

54 यीशुरक्षणाय नियुक्तः शतसेनापतिस्तत्सङ्गिनश्च तादृशीं भूकम्पादिघटनां दृष्ट्वा भीता अवदन्, एष ईश्वरपुत्रो भवति।

55 या बहुयोषितो यीशुं सेवमाना गालीलस्तत्पश्चादागतास्तासां मध्ये

56 मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।

57 सन्ध्यायां सत्यम् अरिमथियानगरस्य यूषफ्नामा धनी मनुजो यीशोः शिष्यत्वात्

58 पीलातस्य समीपं गत्वा यीशोः कायं ययाचे, तेन पीलातः कायं दातुम् आदिदेश।

59 यूषफ् तत्कायं नीत्वा शुचिवस्त्रेणाच्छाद्य

60 स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।

61 किन्तु मग्दलीनी मरियम् अन्यमरियम् एते स्त्रियौ तत्र श्मशानसम्मुख उपविविशतुः।

62 तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्,

63 हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं;

64 तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।

65 तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत।

66 ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Mateus 27, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.