João 21

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 ततः परं तिबिरियाजलधेस्तटे यीशुः पुनरपि शिष्येभ्यो दर्शनं दत्तवान् दर्शनस्याख्यानमिदम्।

2 शिमोन्पितरः यमजथोमा गालीलीयकान्नानगरनिवासी निथनेल् सिवदेः पुत्रावन्यौ द्वौ शिष्यौ चैतेष्वेकत्र मिलितेषु शिमोन्पितरोऽकथयत् मत्स्यान् धर्तुं यामि।

3 ततस्ते व्याहरन् तर्हि वयमपि त्वया सार्द्धं यामः तदा ते बहिर्गताः सन्तः क्षिप्रं नावम् आरोहन् किन्तु तस्यां रजन्याम् एकमपि न प्राप्नुवन्।

4 प्रभाते सति यीशुस्तटे स्थितवान् किन्तु स यीशुरिति शिष्या ज्ञातुं नाशक्नुवन्।

5 तदा यीशुरपृच्छत्, हे वत्सा सन्निधौ किञ्चित् खाद्यद्रव्यम् आस्ते? तेऽवदन् किमपि नास्ति।

6 तदा सोऽवदत् नौकाया दक्षिणपार्श्वे जालं निक्षिपत ततो लप्स्यध्वे, तस्मात् तै र्निक्षिप्ते जाले मत्स्या एतावन्तोऽपतन् येन ते जालमाकृष्य नोत्तोलयितुं शक्ताः।

7 तस्माद् यीशोः प्रियतमशिष्यः पितरायाकथयत् एष प्रभु र्भवेत्, एष प्रभुरिति वाचं श्रुत्वैव शिमोन् नग्नताहेतो र्मत्स्यधारिण उत्तरीयवस्त्रं परिधाय ह्रदं प्रत्युदलम्फयत्।

8 अपरे शिष्या मत्स्यैः सार्द्धं जालम् आकर्षन्तः क्षुद्रनौकां वाहयित्वा कूलमानयन् ते कूलाद् अतिदूरे नासन् द्विशतहस्तेभ्यो दूर आसन् इत्यनुमीयते।

9 तीरं प्राप्तैस्तैस्तत्र प्रज्वलिताग्निस्तदुपरि मत्स्याः पूपाश्च दृष्टाः।

10 ततो यीशुरकथयद् यान् मत्स्यान् अधरत तेषां कतिपयान् आनयत।

11 अतः शिमोन्पितरः परावृत्य गत्वा बृहद्भिस्त्रिपञ्चाशदधिकशतमत्स्यैः परिपूर्णं तज्जालम् आकृष्योदतोलयत् किन्त्वेतावद्भि र्मत्स्यैरपि जालं नाछिद्यत।

12 अनन्तरं यीशुस्तान् अवादीत् यूयमागत्य भुंग्ध्वं; तदा सएव प्रभुरिति ज्ञातत्वात् त्वं कः? इति प्रष्टुं शिष्याणां कस्यापि प्रगल्भता नाभवत्।

13 ततो यीशुरागत्य पूपान् मत्स्यांश्च गृहीत्वा तेभ्यः पर्य्यवेषयत्।

14 इत्थं श्मशानादुत्थानात् परं यीशुः शिष्येभ्यस्तृतीयवारं दर्शनं दत्तवान्।

15 भोजने समाप्ते सति यीशुः शिमोन्पितरं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किम् एतेभ्योधिकं मयि प्रीयसे? ततः स उदितवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत् तर्हि मम मेषशावकगणं पालय।

16 ततः स द्वितीयवारं पृष्टवान् हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? ततः स उक्तवान् सत्यं प्रभो त्वयि प्रीयेऽहं तद् भवान् जानाति; तदा यीशुरकथयत तर्हि मम मेषगणं पालय।

17 पश्चात् स तृतीयवारं पृष्टवान्, हे यूनसः पुत्र शिमोन् त्वं किं मयि प्रीयसे? एतद्वाक्यं तृतीयवारं पृष्टवान् तस्मात् पितरो दुःखितो भूत्वाऽकथयत् हे प्रभो भवतः किमप्यगोचरं नास्ति त्वय्यहं प्रीये तद् भवान् जानाति; ततो यीशुरवदत् तर्हि मम मेषगणं पालय।

18 अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।

19 फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ।

20 यो जनो रात्रिकाले यीशो र्वक्षोऽवलम्ब्य, हे प्रभो को भवन्तं परकरेषु समर्पयिष्यतीति वाक्यं पृष्टवान्, तं यीशोः प्रियतमशिष्यं पश्चाद् आगच्छन्तं

21 पितरो मुखं परावर्त्त्य विलोक्य यीशुं पृष्टवान्, हे प्रभो एतस्य मानवस्य कीदृशी गति र्भविष्यति?

22 स प्रत्यवदत्, मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? त्वं मम पश्चाद् आगच्छ।

23 तस्मात् स शिष्यो न मरिष्यतीति भ्रातृगणमध्ये किंवदन्ती जाता किन्तु स न मरिष्यतीति वाक्यं यीशु र्नावदत् केवलं मम पुनरागमनपर्य्यन्तं यदि तं स्थापयितुम् इच्छामि तत्र तव किं? इति वाक्यम् उक्तवान्।

24 यो जन एतानि सर्व्वाणि लिखितवान् अत्र साक्ष्यञ्च दत्तवान् सएव स शिष्यः, तस्य साक्ष्यं प्रमाणमिति वयं जानीमः।

25 यीशुरेतेभ्योऽपराण्यपि बहूनि कर्म्माणि कृतवान् तानि सर्व्वाणि यद्येकैकं कृत्वा लिख्यन्ते तर्हि ग्रन्था एतावन्तो भवन्ति तेषां धारणे पृथिव्यां स्थानं न भवति। इति॥

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar João 21, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.