João 20

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 अनन्तरं सप्ताहस्य प्रथमदिने ऽतिप्रत्यूषे ऽन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।

2 पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।

3 अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां।

4 उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।

5 तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।

6 अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य

7 स्थापितवस्त्राणि मस्तकस्य वस्त्रञ्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्।

8 ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।

9 यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।

10 अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्।

11 ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य

12 यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्।

13 तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।

14 इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा ज्ञातुं नाशक्नोत्।

15 तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं ज्ञात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।

16 तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो।

17 तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माकञ्च पिता मम युष्माकञ्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं ज्ञापय।

18 ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्योऽकथयत्।

19 ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।

20 इत्युक्त्वा निजहस्तं कुक्षिञ्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।

21 यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।

22 इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।

23 यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषाञ्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।

24 द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।

25 अतो वयं प्रभूम् अपश्यामेति वाक्येऽन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अङ्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।

26 अपरम् अष्टमेऽह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।

27 पश्चात् थामै कथितवान् त्वम् अङ्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।

28 तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।

29 यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।

30 एतदन्यानि पुस्तकेऽस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।

31 किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar João 20, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.