Romanos 7

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?

2 यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।

3 एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।

4 हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।

5 यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।

6 किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः

7 तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; किञ्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज्ञास्यं।

8 किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।

9 अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज्ञायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।

10 इत्थं सति जीवननिमित्ता याज्ञा सा मम मृत्युजनिकाभवत्।

11 यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां वञ्चयित्वा तेन माम् अहन्।

12 अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।

13 तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।

14 व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकिङ्करो विद्ये।

15 यतो यत् कर्म्म करोमि तत् मम मनोऽभिमतं नहि; अपरं यन् मम मनोऽभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।

16 तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।

17 अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।

18 यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।

19 यतो यामुत्तमां क्रियां कर्त्तुमहं वाञ्छामि तां न करोमि किन्तु यत् कुत्सितं कर्म्म कर्त्तुम् अनिच्छुकोऽस्मि तदेव करोमि।

20 अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।

21 भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।

22 अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;

23 किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।

24 हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?

25 अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Romanos 7, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.