Lucas 19

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 यदा यीशु र्यिरीहोपुरं प्रविश्य तन्मध्येन गच्छंस्तदा

2 सक्केयनामा करसञ्चायिनां प्रधानो धनवानेको

3 यीशुः कीदृगिति द्रष्टुं चेष्टितवान् किन्तु खर्व्वत्वाल्लोकसंघमध्ये तद्दर्शनमप्राप्य

4 येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह।

5 पश्चाद् यीशुस्तत्स्थानम् इत्वा ऊर्द्ध्वं विलोक्य तं दृष्ट्वावादीत्, हे सक्केय त्वं शीघ्रमवरोह मयाद्य त्वद्गेहे वस्तव्यं।

6 ततः स शीघ्रमवरुह्य साह्लादं तं जग्राह।

7 तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।

8 किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।

9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।

10 यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।

11 अथ स यिरूशालमः समीप उपातिष्ठद् ईश्वरराजत्वस्यानुष्ठानं तदैव भविष्यतीति लोकैरन्वभूयत, तस्मात् स श्रोतृभ्यः पुनर्दृष्टान्तकथाम् उत्थाप्य कथयामास।

12 कोपि महाल्लोको निजार्थं राजत्वपदं गृहीत्वा पुनरागन्तुं दूरदेशं जगाम।

13 यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।

14 किन्तु तस्य प्रजास्तमवज्ञाय मनुष्यमेनम् अस्माकमुपरि राजत्वं न कारयिव्याम इमां वार्त्तां तन्निकटे प्रेरयामासुः।

15 अथ स राजत्वपदं प्राप्यागतवान् एकैको जनो बाणिज्येन किं लब्धवान् इति ज्ञातुं येषु दासेषु मुद्रा अर्पयत् तान् आहूयानेतुम् आदिदेश।

16 तदा प्रथम आगत्य कथितवान्, हे प्रभो तव तयैकया मुद्रया दशमुद्रा लब्धाः।

17 ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।

18 द्वितीय आगत्य कथितवान्, हे प्रभो तवैकया मुद्रया पञ्चमुद्रा लब्धाः।

19 ततः स उवाच, त्वं पञ्चानां नगराणामधिपति र्भव।

20 ततोन्य आगत्य कथयामास, हे प्रभो पश्य तव या मुद्रा अहं वस्त्रे बद्ध्वास्थापयं सेयं।

21 त्वं कृपणो यन्नास्थापयस्तदपि गृह्लासि, यन्नावपस्तदेव च छिनत्सि ततोहं त्वत्तो भीतः।

22 तदा स जगाद, रे दुष्टदास तव वाक्येन त्वां दोषिणं करिष्यामि, यदहं नास्थापयं तदेव गृह्लामि, यदहं नावपञ्च तदेव छिनद्मि, एतादृशः कृपणोहमिति यदि त्वं जानासि,

23 तर्हि मम मुद्रा बणिजां निकटे कुतो नास्थापयः? तया कृतेऽहम् आगत्य कुसीदेन सार्द्धं निजमुद्रा अप्राप्स्यम्।

24 पश्चात् स समीपस्थान् जनान् आज्ञापयत् अस्मात् मुद्रा आनीय यस्य दशमुद्राः सन्ति तस्मै दत्त।

25 ते प्रोचुः प्रभोऽस्य दशमुद्राः सन्ति।

26 युष्मानहं वदामि यस्याश्रये वद्धते ऽधिकं तस्मै दायिष्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यद्यदस्ति तदपि तस्मान् नायिष्यते।

27 किन्तु ममाधिपतित्वस्य वशत्वे स्थातुम् असम्मन्यमाना ये मम रिपवस्तानानीय मम समक्षं संहरत।

28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।

29 ततो बैत्फगीबैथनीयाग्रामयोः समीपे जैतुनाद्रेरन्तिकम् इत्वा शिष्यद्वयम् इत्युक्त्वा प्रेषयामास,

30 युवाममुं सम्मुखस्थग्रामं प्रविश्यैव यं कोपि मानुषः कदापि नारोहत् तं गर्द्दभशावकं बद्धं द्रक्ष्यथस्तं मोचयित्वानयतं।

31 तत्र कुतो मोचयथः? इति चेत् कोपि वक्ष्यति तर्हि वक्ष्यथः प्रभेारत्र प्रयोजनम् आस्ते।

32 तदा तौ प्ररितौ गत्वा तत्कथाानुसारेण सर्व्वं प्राप्तौ।

33 गर्दभशावकमोचनकाले तत्वामिन ऊचुः, गर्दभशावकं कुतो मोचयथः?

34 तावूचतुः प्रभोरत्र प्रयोजनम् आस्ते।

35 पश्चात् तौ तं गर्दभशावकं यीशोरन्तिकमानीय तत्पृष्ठे निजवसनानि पातयित्वा तदुपरि यीशुमारोहयामासतुः।

36 अथ यात्राकाले लोकाः पथि स्ववस्त्राणि पातयितुम् आरेभिरे।

37 अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

38 यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।

39 तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय।

40 स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।

41 पश्चात् तत्पुरान्तिकमेत्य तदवलोक्य साश्रुपातं जगाद,

42 हा हा चेत् त्वमग्रेऽज्ञास्यथाः, तवास्मिन्नेव दिने वा यदि स्वमङ्गलम् उपालप्स्यथाः, तर्ह्युत्तमम् अभविष्यत्, किन्तु क्षणेस्मिन् तत्तव दृष्टेरगोचरम् भवति।

43 त्वं स्वत्राणकाले न मनो न्यधत्था इति हेतो र्यत्काले तव रिपवस्त्वां चतुर्दिक्षु प्राचीरेण वेष्टयित्वा रोत्स्यन्ति

44 बालकैः सार्द्धं भूमिसात् करिष्यन्ति च त्वन्मध्ये पाषाणैकोपि पाषाणोपरि न स्थास्यति च, काल ईदृश उपस्थास्यति।

45 अथ मध्येमन्दिरं प्रविश्य तत्रत्यान् क्रयिविक्रयिणो बहिष्कुर्व्वन्

46 अवदत् मद्गृहं प्रार्थनागृहमिति लिपिरास्ते किन्तु यूयं तदेव चैराणां गह्वरं कुरुथ।

47 पश्चात् स प्रत्यहं मध्येमन्दिरम् उपदिदेश; ततः प्रधानयाजका अध्यापकाः प्राचीनाश्च तं नाशयितुं चिचेष्टिरे;

48 किन्तु तदुपदेशे सर्व्वे लोका निविष्टचित्ताः स्थितास्तस्मात् ते तत्कर्त्तुं नावकाशं प्रापुः।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Lucas 19, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.