Gálatas 2

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 अनन्तरं चतुर्दशसु वत्सरेषु गतेष्वहं बर्णब्बा सह यिरूशालमनगरं पुनरगच्छं, तदानों तीतमपि स्वसङ्गिनम् अकरवं।

2 तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।

3 ततो मम सहचरस्तीतो यद्यपि यूनानीय आसीत् तथापि तस्य त्वक्छेदोऽप्यावश्यको न बभूव।

4 यतश्छलेनागता अस्मान् दासान् कर्त्तुम् इच्छवः कतिपया भाक्तभ्रातरः ख्रीष्टेन यीशुनास्मभ्यं दत्तं स्वातन्त्र्यम् अनुसन्धातुं चारा इव समाजं प्राविशन्।

5 अतः प्रकृते सुसंवादे युष्माकम् अधिकारो यत् तिष्ठेत् तदर्थं वयं दण्डैकमपि यावद् आज्ञाग्रहणेन तेषां वश्या नाभवाम।

6 परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्।

7 किन्तु छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारः पितरि यथा समर्पितस्तथैवाच्छिन्नत्वचां मध्ये सुसंवादप्रचारणस्य भारो मयि समर्पित इति तै र्बुबुधे।

8 यतश्छिन्नत्वचां मध्ये प्रेरितत्वकर्म्मणे यस्य या शक्तिः पितरमाश्रितवती तस्यैव सा शक्ति र्भिन्नजातीयानां मध्ये तस्मै कर्म्मणे मामप्याश्रितवती।

9 अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,

10 केवलं दरिद्रा युवाभ्यां स्मरणीया इति। अतस्तदेव कर्त्तुम् अहं यते स्म।

11 अपरम् आन्तियखियानगरं पितर आगतेऽहं तस्य दोषित्वात् समक्षं तम् अभर्त्सयं।

12 यतः स पूर्व्वम् अन्यजातीयैः सार्द्धम् आहारमकरोत् ततः परं याकूबः समीपात् कतिपयजनेष्वागतेषु स छिन्नत्वङ्मनुष्येभ्यो भयेन निवृत्य पृथग् अभवत्।

13 ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।

14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

15 आवां जन्मना यिहूदिनौ भवावो भिन्नजातीयौ पापिनौ न भवावः

16 किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।

17 परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।

18 मया यद् भग्नं तद् यदि मया पुनर्निर्म्मीयते तर्हि मयैवात्मदोषः प्रकाश्यते।

19 अहं यद् ईश्वराय जीवामि तदर्थं व्यवस्थया व्यवस्थायै अम्रिये।

20 ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।

21 अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Gálatas 2, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.