Filemom 1

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 ख्रीष्टस्य यीशो र्बन्दिदासः पौलस्तीथियनामा भ्राता च प्रियं सहकारिणं फिलीमोनं

2 प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।

3 अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रहञ्च क्रियास्तां।

4 प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं

5 प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।

6 अस्मासु यद्यत् सौजन्यं विद्यते तत् सर्व्वं ख्रीष्टं यीशुं यत् प्रति भवतीति ज्ञानाय तव विश्वासमूलिका दानशीलता यत् सफला भवेत् तदहम् इच्छामि।

7 हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।

8 त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध

9 इदानीं यीशुख्रीष्टस्य बन्दिदासश्चैवम्भूतो यः पौलः सोऽहं त्वां विनेतुं वरं मन्ये।

10 अतः शृङ्खलबद्धोऽहं यमजनयं तं मदीयतनयम् ओनीषिमम् अधि त्वां विनये।

11 स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।

12 तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।

13 सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।

14 किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।

15 को जानाति क्षणकालार्थं त्वत्तस्तस्य विच्छेदोऽभवद् एतस्यायम् अभिप्रायो यत् त्वम् अनन्तकालार्थं तं लप्स्यसे

16 पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।

17 अतो हेतो र्यदि मां सहभागिनं जानासि तर्हि मामिव तमनुगृहाण।

18 तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।

19 अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।

20 भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय।

21 तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।

22 तत्करणसमये मदर्थमपि वासगृहं त्वया सज्जीक्रियतां यतो युष्माकं प्रार्थनानां फलरूपो वर इवाहं युष्मभ्यं दायिष्ये ममेति प्रत्याशा जायते।

23 ख्रीष्टस्य यीशाः कृते मया सह बन्दिरिपाफ्रा

24 मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।

25 अस्माकं प्रभो र्यीशुख्रीष्टस्यानुग्रहो युष्माकम् आत्मना सह भूयात्। आमेन्।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Filemom 1, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.