Atos 28

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते ज्ञातवन्तः।

2 असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।

3 किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।

4 तेऽसभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनोऽवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।

5 किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्।

6 ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदोऽघटनात् ते तद्विपरीतं विज्ञाय भाषितवन्त एष कश्चिद् देवो भवेत्।

7 पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनोऽस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।

8 तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।

9 इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।

10 तस्मात्तेऽस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।

11 इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे ऽतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।

12 ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।

13 तस्माद् आवृत्य रीगियनगरम् उपस्थिताः दिनैकस्मात् परं दक्षिणवयौ सानुकूल्ये सति परस्मिन् दिवसे पतियलीनगरम् उपातिष्ठाम।

14 ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।

15 तस्मात् तत्रत्याः भ्रातरोऽस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णीञ्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।

16 अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।

17 दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं किञ्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।

18 रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;

19 किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।

20 एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितुञ्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शुङ्खलेन बद्धोऽभवम्।

21 तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।

22 तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।

23 तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।

24 केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्;

25 एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,

26 "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।

27 ते मानुषा यथा नेत्रैः परिपश्यन्ति नैव हि। कर्णैः र्यथा न शृण्वन्ति बुध्यन्ते न च मानसैः। व्यावर्त्तयत्सु चित्तानि काले कुत्रापि तेषु वै। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां सन्ति स्थूला हि बुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः॥

28 अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।

29 एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।

30 इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,

31 निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Atos 28, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.