Atos 26

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।

2 हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो ऽभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये;

3 यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज्ञतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।

4 अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति।

5 अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।

6 किन्तु हे आग्रिप्पराज ईश्वरोऽस्माकं पूर्व्वपुरुषाणां निकटे यद् अङ्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।

7 तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।

8 ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटेऽसम्भवं कुतो भवेत्?

9 नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज्ञाय

10 यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।

11 वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।

12 इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज्ञापत्रञ्च लब्ध्वा दम्मेषक्नगरं गतवान्।

13 तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयसङ्गिनां लोकानाञ्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।

14 तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।

15 तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं,

16 किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्।

17 विशेषतो यिहूदीयलोकेभ्यो भिन्नजातीयेभ्यश्च त्वां मनोनीतं कृत्वा तेषां यथा पापमोचनं भवति

18 यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां ज्ञानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।

19 हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं

20 प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येेन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।

21 एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः।

22 तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयानाञ्च समीपे दीप्तिं प्रकाशयिष्यति

23 भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणाञ्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।

24 तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज्ञानो जातः।

25 स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीयञ्च वाक्यं प्रस्तौमि।

26 यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं।

27 हे आग्रिप्पराज भवान् किं भविष्यद्वादिगणोक्तानि वाक्यानि प्रत्येति? भवान् प्रत्येति तदहं जानामि।

28 तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।

29 ततः सोऽवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृङ्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थयेऽहम्।

30 एतस्यां कथायां कथितायां स राजा सोऽधिपति र्बर्णीकी सभास्था लोकाश्च तस्माद् उत्थाय

31 गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।

32 तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar Atos 26, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.