3 João 1

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 प्राचीनो ऽहं सत्यमताद् यस्मिन् प्रीये तं प्रियतमं गायं प्रति पत्रं लिखामि।

2 हे प्रिय, तवात्मा यादृक् शुभान्वितस्तादृक् सर्व्वविषये तव शुभं स्वास्थ्यञ्च भूयात्।

3 भ्रातृभिरागत्य तव सत्यमतस्यार्थतस्त्वं कीदृक् सत्यमतमाचरस्येतस्य साक्ष्ये दत्ते मम महानन्दो जातः।

4 मम सन्तानाः सत्यमतमाचरन्तीतिवार्त्तातो मम य आनन्दो जायते ततो महत्तरो नास्ति।

5 हे प्रिय, भ्रातृन् प्रति विशेषतस्तान् विदेशिनो भृातृन् प्रति त्वया यद्यत् कृतं तत् सर्व्वं विश्वासिनो योग्यं।

6 ते च समितेः साक्षात् तव प्रम्नः प्रमाणं दत्तवन्तः, अपरम् ईश्वरयोग्यरूपेण तान् प्रस्थापयता त्वया सत्कर्म्म कारिष्यते।

7 यतस्ते तस्य नाम्ना यात्रां विधाय भिन्नजातीयेभ्यः किमपि न गृहीतवन्तः।

8 तस्माद् वयं यत् सत्यमतस्य सहाया भवेम तदर्थमेतादृशा लोका अस्माभिरनुग्रहीतव्याः।

9 समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।

10 अतो ऽहं यदोपस्थास्यामि तदा तेन यद्यत् क्रियते तत् सर्व्वं तं स्मारयिष्यामि, यतः स दुर्व्वाक्यैरस्मान् अपवदति, तेनापि तृप्तिं न गत्वा स्वयमपि भ्रातृन् नानुगृह्लाति ये चानुग्रहीतुमिच्छन्ति तान् समितितो ऽपि बहिष्करोति।

11 हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।

12 दीमीत्रियस्य पक्षे सर्व्वैः साक्ष्यम् अदायि विशेषतः सत्यमतेनापि, वयमपि तत्पक्षे साक्ष्यं दद्मः, अस्माकञ्च साक्ष्यं सत्यमेवेति यूयं जानीथ।

13 त्वां प्रति मया बहूनि लेखितव्यानि किन्तु मसीलेखनीभ्यां लेखितुं नेच्छामि।

14 अचिरेण त्वां द्रक्ष्यामीति मम प्रत्याशास्ते तदावां सम्मुखीभूय परस्परं सम्भाषिष्यावहे।

15 तव शान्ति र्भूयात्। अस्माकं मित्राणि त्वां नमस्कारं ज्ञापयन्ति त्वमप्येकैकस्य नाम प्रोच्य मित्रेभ्यो नमस्कुरु। इति।

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar 3 João 1, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.