1 Coríntios 4

Sanskrit Bible (NT) in Devanagari Script (सत्यवेदः।) (SAN_DEV)

1 लोका अस्मान् ख्रीष्टस्य परिचारकान् ईश्वरस्य निगूठवाक्यधनस्याध्यक्षांश्च मन्यन्तां।

2 किञ्च धनाध्यक्षेण विश्वसनीयेन भवितव्यमेतदेव लोकै र्याच्यते।

3 अतो विचारयद्भि र्युष्माभिरन्यैः कैश्चिन् मनुजै र्वा मम परीक्षणं मयातीव लघु मन्यते ऽहमप्यात्मानं न विचारयामि।

4 मया किमप्यपराद्धमित्यहं न वेद्मि किन्त्वेतेन मम निरपराधत्वं न निश्चीयते प्रभुरेव मम विचारयितास्ति।

5 अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।

6 हे भ्रातरः सर्व्वाण्येतानि मयात्मानम् आपल्लवञ्चोद्दिश्य कथितानि तस्यैतत् कारणं युयं यथा शास्त्रीयविधिमतिक्रम्य मानवम् अतीव नादरिष्यध्ब ईत्थञ्चैकेन वैपरीत्याद् अपरेण न श्लाघिष्यध्ब एतादृशीं शिक्षामावयोर्दृष्टान्तात् लप्स्यध्वे।

7 अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे?

8 इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।

9 प्रेरिता वयं शेषा हन्तव्याश्चेवेश्वरेण निदर्शिताः। यतो वयं सर्व्वलोकानाम् अर्थतः स्वर्गीयदूतानां मानवानाञ्च कौतुकास्पदानि जाताः।

10 ख्रीष्टस्य कृते वयं मूढाः किन्तु यूयं ख्रीष्टेन ज्ञानिनः, वयं दुर्ब्बला यूयञ्च सबलाः, यूयं सम्मानिता वयञ्चापमानिताः।

11 वयमद्यापि क्षुधार्त्तास्तृष्णार्त्ता वस्त्रहीनास्ताडिता आश्रमरहिताश्च सन्तः

12 कर्म्मणि स्वकरान् व्यापारयन्तश्च दुःखैः कालं यापयामः। गर्हितैरस्माभिराशीः कथ्यते दूरीकृतैः सह्यते निन्दितैः प्रसाद्यते।

13 वयमद्यापि जगतः सम्मार्जनीयोग्या अवकरा इव सर्व्वै र्मन्यामहे।

14 युष्मान् त्रपयितुमहमेतानि लिखामीति नहि किन्तु प्रियात्मजानिव युष्मान् प्रबोधयामि।

15 यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।

16 अतो युष्मान् विनयेऽहं यूयं मदनुगामिनो भवत।

17 इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।

18 अपरमहं युष्माकं समीपं न गमिष्यामीति बुद्ध्वा युष्माकं कियन्तो लोका गर्व्वन्ति।

19 किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।

20 यस्मादीश्वरस्य राजत्वं वाग्युक्तं नहि किन्तु सामर्थ्ययुक्तं।

21 युष्माकं का वाञ्छा? युष्मत्समीपे मया किं दण्डपाणिना गन्तव्यमुत प्रेमनम्रतात्मयुक्तेन वा?

Ler em outra tradução

Comparar lado a lado

Estude este capítulo no WhatsApp

Peça à IA da Bíblia Fala para explicar 1 Coríntios 4, comparar traduções ou montar um estudo — tudo direto pelo WhatsApp.